post5

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra
संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री आदिनाथ जिन स्तुति
स्वयम्भुवां भूत- हितेन भूतले,
समञ्जस-ज्ञान-विभूति – चक्षुषा ।
विराजितं येन विधुन्वता तमः,
क्षपाकरेणेव गुणौत्करैः करैः ॥ १ ॥

प्रजापतिर्यः प्रथमं जिजीविषूः,
शशास कृष्यादिषु कर्मसु प्रजाः ।
प्रबुद्धतत्त्वः पुनरद्भुतोदयो,
ममत्वतो निर्विविदे विदांवरः ॥ २ ॥

विहाय यः सागर-वारि-वाससं,
वधूमिवेमां वसुधा-वधूं सतीम् ।
मुमुक्षुरिक्ष्वाकु कुलादिरात्मवान्,
प्रभुः प्रवव्राज सहिष्णुरच्युतः ॥३ ॥

स्व-दोष -मूलं स्व-समाधि- तेजसा,
निनाय यो निर्दय – भस्मसात्क्रियाम् ।
जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा,
बभूव च ब्रह्म-पदामृतेश्वरः ॥४ ॥

स विश्व – चक्षुर्वष भोऽर्चितः सतां,
समग्र-विद्याऽऽत्म-वपुर्निरञ्जनः ।
पुनातु चेतो मम नाभि-नन्दनो,
जिनोऽजित – दुल्लक- वादि-शासनः ॥५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री अजितनाथ जिन-स्तुति

यस्य प्रभावात् त्रिदिव- च्युतस्य
क्रीडास्वपि क्षीबमुखाऽरविन्दः,
अजेय-शक्तिर्भुवि बन्धु-वर्ग-
श्चकार नामाऽजित इत्यबन्ध्यम् ॥ ६ ॥

अद्याऽपि यस्याऽजितशासनस्य
सतां प्रणेतुः प्रतिमङ्गलार्थम् ।
प्रगृह्यते नाम परम- पवित्रं
स्वसिद्धि-कामेन जनेन लोके ॥ ७ ॥

यः प्रादुरासीत्प्रभु-शक्ति- भूम्ना
भव्याऽऽशयालीन- कलङ्क- शान्त्यै ।
महामुनिर्मुक्त- घनोपदेहो
यथाऽरविन्दाऽभ्युदयाय भास्वान् ॥८ ॥

येन प्रणीतं पृथु धर्म-तीर्थं
ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् ।
गाङ्गं हृदं चन्दन- पङ्क- शीतं
गज-प्रवेका इव धर्म-तप्ताः ॥ ९ ॥

स ब्रह्मनिष्ठः सम- मित्र – शत्रु-
विद्या – विनिर्वान्त-कषाय- दोषः ।
लब्धात्मलक्ष्मीरजितोऽजितात्मा
जिन श्रियं मे भगवान् विधत्ताम् ॥१० ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री शम्भवनाथ जिन स्तुति

त्वं शम्भवः सम्भव- तर्ष – रोगैः
सन्तप्यमानस्य जनस्य लोके ।
आसीरिहाऽऽकस्मिक एव वैद्यो
वैद्यो यथाऽनाथरुजां प्रशान्त्यै ॥ ११ ॥

अनित्यमत्राणमहंक्रियाभिः
प्रसक्त-मिथ्याऽध्यवसाय – दोषम् ।
इदं जगज्जन्म-जराऽन्तकार्तं
निरञ्जनां शान्तिमजीगमस्त्वम् ॥१२ ॥

शतहृदोन्मेष – चलं हि सौख्यं
तृष्णामयाऽप्यायन-मात्र- हेतुः ।
तृष्णाभिवृद्धिश्च तपत्यजस्त्रं
तापस्तदायासयतीत्यवादीः ॥ १३ ॥

बन्धश्च मोक्षश्च तयोश्च हेतू
बद्धश्च मुक्तश्च फलं च मुक्तेः ।
स्याद्वादिनो नाथ! तवैव युक्तं
नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥ १४ ॥

शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः
स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः ।
तथाऽपि भक्त्या स्तुत-पाद-पद्मो
ममार्य ! देयाः शिवतातिमुच्चैः ॥ १५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra
संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री अभिनन्दननाथ जिन स्तुति

गुणाऽभिनन्दादभिनन्दनो भवान्
दया-वधूं क्षान्ति – सखीमशिश्रियत् ।
समाधि–तन्त्रस्तदुपोपपत्तये
द्वयेन नैर्ग्रन्थ्य-गुणेन चाऽयुजत् ॥ १६ ॥

अचेतने तत्कृत-बन्धजेऽपि च
ममेदमित्याभिनिवेशिक ग्रहात् ।
प्रभंगुरे स्थावर – निश्चयेन च
क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७ ॥

क्षुदादि-दुःख- प्रतिकारतः स्थिति-
र्न चेन्द्रियार्थ–प्रभवाऽल्प- सौख्यतः ।
ततो गुणो नास्ति च देह देहिनो-
रितीदमित्थं भगवान् व्यजिज्ञपत् ॥ १८ ॥

जनोऽतिलोप्यनुबन्धदोषतो
भयादकार्येष्विह न प्रवर्तते ।
इहाऽप्यमुत्राऽप्यनुबन्धदोषवित्
कथं सुखे संसजतीति चाऽब्रवीत् ॥ १९ ॥

स चानुबन्धोऽस्य जनस्य तापकृत्
तृषोऽभिवृद्धि: सुखतो न च स्थितिः ।
इति प्रभो ! लोक-हितं यतो मतं
ततो भवानेव गतिः सतां मतः ॥ २०॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री सुमतिनाथ जिन – स्तुति

अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं,
स्वयं मतं येन सुयुक्ति- नीतम् ।
यतश्च शेषेषु मतेषु नास्ति,
सर्व-क्रिया- कारक-तत्त्व-सिद्धिः ॥२१॥

अनेकमेकं च तदेव तत्त्वं,
भेदाऽन्वयज्ञानमिदं हि सत्यम् ।
मृषोपचारोऽन्यतरस्य लोपे,
तच्छेषलोपोऽपि ततोऽनुपाख्यम् ॥२२॥

सतः कथञ्चित्तदसत्त्व – शक्तिः,
खे नास्ति पुष्पं तरुषु प्रसिद्धम् ।
सर्व-स्वभाव- च्युतमप्रमाणं,
स्व- वाग्विरुद्धं तव दृष्टितोऽन्यत् ॥२३॥

न सर्वथा नित्यमुदेत्यपैति,
न च क्रिया-कारकमंत्र युक्तम् ।
नैवाऽसतो जन्म सतो न नाशो,
दीपस्तमः पुद्गलभावतोऽस्ति ॥२४॥

विधिर्निषेधश्च कथञ्चिदिष्टौ,
विवक्षया मुख्य-गुण-व्यवस्था ।
इति प्रणीतिः सुमतेस्तवेयं,
मति – प्रवेकः स्तुवतोऽस्ति नाथ ! ॥ २५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री पद्मप्रभ जिन स्तुति

पद्मप्रभः पद्म- पलाश-लेश्य:,
पद्मालयाऽऽ लिङ्गितचारुमूर्तिः ।
बभौ भवान् भव्य – पयोरुहाणां,
पद्माकराणामिव पद्मबन्धुः ॥२६ ॥

बभार पद्मां च सरस्वतीं च
भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः ।
सरस्वतीमेव समग्र-शोभां
सर्वज्ञ- लक्ष्मीज्वलितां विमुक्तः ॥ २७॥

शरीर-रश्मि- प्रसरः प्रभोस्ते
बालार्क- रश्मिच्छविराऽऽलिलेप ।
नराSमराऽऽकीर्ण-सभां प्रभा वां
शैलस्य पद्माभमणेः स्वसानुम् ॥ २८ ॥

नभस्तलं पल्लवयन्निव त्वं
सहस्रपत्राऽम्बुज- गर्भचारै: ।
पदाऽम्बुजैः पातित- मार-दर्पो
भूमौ प्रजानां विजहर्थ भूत्यै ॥ २९ ॥

गुणाम्बुधेर्विप्रुषमप्यजस्य
नाऽऽखंडलः स्तोतुमलं तवर्षेः ।
प्रागेव मादृक्किमुताऽतिभक्ति-
म बालमालापयतीदमित्थम् ॥ ३० ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री सुपार्श्वनाथ जिन – स्तुति

स्वाथ्यं यदात्यन्तिकमेष पुंसां,
स्वार्थो न भोगः परिभंगुरात्मा ।
तृषोऽनुषंगान्न च तापशान्ति-
रितीदमाख्यद्भगवान् सुपार्श्वः ॥३१ ॥

अजङ्गगमं जङ्गम-नेय- यन्त्रं,
यथा तथा जीव- धृतं शरीरम् ।
बीभत्सु पूति क्षयि तापकं च,
स्नेहो वृथाऽत्रेति हितं त्वमाख्यः ॥३२ ॥

अलंघ्यशक्तिर्भवितव्यतेयं,
हेतु-द्वयाऽऽविष्कृत-कार्य-लिङ्गा ।
अनीश्वरो जन्तुरहंक्रियार्त्तः,
संहत्य कार्येष्विति साध्ववादीः ॥३३॥

बिभेति मृत्योर्न ततोऽस्ति मोक्षो,
नित्य शिवं वाञ्छति नाऽस्य लाभः ।
तथाऽपि बालो भय-काम- वश्यो,
वृथा स्वयं तप्यत इत्यवादीः ॥३४॥

सर्वस्य तत्त्वस्य भवान् प्रमाता,
मातेव बालस्य हितानुशास्ता ।
गुणाऽवलोकस्य जनस्य नेता,
मयाऽपि भक्त्या परिणयतेऽद्य ॥ ३५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री चन्दप्रभ जिन – स्तुति

चन्द्रप्रभं चन्द्र- मरीचि – गौरं
चन्द्रं द्वितीयं जगतीव कान्तम् ।
वन्देऽभिवन्द्यं महतामृषीन्द्रं
जिनं जित-स्वान्त-कषाय-बन्धम् ॥३६ ॥

यस्याङ्ग- लक्ष्मी-परिवेश-भिन्नं
तमस्तमोरेरिव रश्मिभिन्नम् ।
ननाश बाह्यं बहु मानसं च
ध्यान- प्रदीपाऽतिशयेन भिन्नम ॥३७॥

स्व-पक्ष – सौस्थित्य-मदाऽवलिप्ता
वाक्सिंह-नादैर्विमदा बभूवुः ।
प्रवादिनो यस्य मदार्द्रगण्डा
गजा यथा केसरिणो निनादैः ॥३८ ॥

यः सर्व- लोके परमेष्ठितायाः
पदं बभूवाऽद्भुत – कर्मतेजाः ।
अनन्त-धामाऽक्षर- विश्वचक्षुः
समन्तदुःख-क्षय- शासनश्च ॥३९॥

स चन्द्रमा भव्य-कुमुद्वतीनां
विपन्न-दोषाऽभ्र- कलङ्क-लेपः ।
व्याकोश-वाङ्-न्याय-मयूख-मालः
पूयात्पवित्रो भगवान्मनो मे ॥ ४० ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री सुविधिनाथ जिन-स्तुति

एकान्तदृष्टि-प्रतिषेधि तत्त्वं
प्रमाण- सिद्धं तदतत्स्वभावम् ।
त्वया प्रणीतं सुविधे ! स्वधाम्ना
नैतत्समालीढ- पदं त्वदन्यैः ॥ ४१ ॥

तदेव च स्यान्न तदेव च स्यात्
तथाप्रतीतेस्तव तत्कथञ्चित् ।
नाऽत्यन्तमन्यत्वमनन्यता च
विधेर्निषेधस्य च शून्य- दोषात् ॥४२ ॥

नित्यं तदेवेदमिति प्रतीते –
र्न नित्यमन्यत् प्रतिपत्ति- सिद्धेः ।
न तद्विरुद्धं बहिरन्तरङ्ग –
निमित्त- नैमित्तिक- योगतस्ते ॥ ४३ ॥

अनेकमेकं च पदस्य वाच्यं
वृक्षा इति प्रत्ययवत्प्रकृत्या ।
आकांक्षिणः स्यादिति वै निपातो
गुणाऽनपेक्षं नियमेऽपवादः ॥ ४४ ॥

गुण- प्रधानार्थमिदं हि वाक्यं
जिनस्य ते तद् द्विषतामपथ्यम् ।
ततोऽभिवन्द्यं जगदीश्वराणां
ममाऽपि साधोस्तव पादपद्मम् ॥ ४५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री शीतलनाथ जिन स्तुति

न शीतलाश्चन्दनचन्द्ररश्मयो
न गाङ्गमम्भो न च हारयष्टयः ।
यथा मुनेस्तेऽनघवाक्य- रश्मयः
शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥४६ ॥

सुखाऽभिलाषाऽनल- दाह-मूर्च्छितं
मनो निजं ज्ञानमयाऽमृताम्बुभिः ।
व्यदिध्यपस्त्वं विष- दाह-मोहितं
यथा भिषग्मन्त्र- गुणैः स्व-विग्रहम् ॥४७॥

स्व- जीविते काम-सुखे च तृष्णया
दिवा श्रमार्त्ता निशि शेरते प्रजाः ।
त्वमार्य ! नक्तं-दिवमप्रमत्तवा-
नजागरेवाऽऽत्म-विशुद्ध-वर्त्मनि ॥४८ ॥

अपत्य – वित्तोत्तर- लोक- तृष्णया
तपस्विनः केचन कर्म कुर्वते ।
भवन्पुनर्जन्म – जरा – जिहासया
त्रयीं प्रवृत्तिं समधीरवारुणत् ॥४९ ॥

त्वमुत्तम- ज्यातिरजः क्व निर्वृतः
क्व ते परे बुद्धि-लवोद्धव-क्षताः ।
ततः स्वनिः श्रेयस – भावनापरै-
बुध- प्रवेकैर्जिन ! शीतलेड्यसे ॥५०॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra
संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री श्रेयांसनाथ जिन स्तुति

श्रेयान् जिनः श्रेयसि वर्त्मनीमाः
श्रेयः प्रजाः शासदजेयवाक्यः ।
भवांश्चकाशे भुवनत्रयेऽस्मि-
नेको यथा वीत- घनो विवस्वान् ॥५१ ॥

विधिर्विषक्त-प्रतिषेधरूपः
प्रमाणमत्राऽन्यतरत्प्रधानम् ।
गुणो परो मुख्य नियामहेतु-
र्नयः दृष्टान्तसमर्थनस्ते ॥५२॥

विवक्षितो मुख्य इतीष्यतेऽन्यो
गुणोऽविवक्षो न निरात्मकस्ते ।
तथाऽरिमित्राऽनुभयादिशक्ति
द्वयाऽवधेः कार्यकरं हि वस्तु ॥५३ ॥

दृष्टान्त-सिद्धावुभयोर्विवादे
साध्यं प्रसिद्ध्येन्न तु तादृगस्ति ।
यत्सर्वथैकान्त- नियामि दृष्टं
त्वदीय- दृष्टिर्विभवत्यशेषे ॥ ५४ ॥

एकान्त-दृष्टि-प्रतिषेध-सिद्धि-
न्यायेषुभिर्मोहरिपुं निरस्य ।
असि स्म कैवल्य-विभूति-सम्राट्
ततस्त्वमर्हन्नसि मे स्तवाऽर्हः ॥५५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री वासुपूज्य जिन – स्तुति

शिवासुपूज्योऽभ्युदय-क्रियासु
त्वं वासुपूज्यस्त्रिदशेन्द्र- पूज्यः ।
मयाऽपि पूज्योऽल्प-धिया मुनीन्द्र !
दीपार्चिषा किं तपनो न पूज्यः ॥५६ ॥

न पूजयाऽर्थस्त्वयि वीतरागे
न निन्दया नाथ ! विवान्त-वैरे ।
तथाऽपि ते पुण्य-गुण-स्मृतिर्नः
पुनाति चित्तं दुरिताञ्जनेभ्यः ॥५७॥

पूज्यं जिनं त्वाऽर्चयतो जनस्य
सावद्य – लेशो बहु- पुण्य- राशौ ।
दोषाय नाऽलं कणिका विषस्य
न दूषिका शीत- शिवाऽम्बुराशौ ॥५८ ॥

यद्वस्तु बाह्यं गुण-दोष-सूते –
निमित्तमभ्यन्तर- मूलहेतोः ।
अध्यात्म-वृत्तस्य तदङ्गभूत-
मभ्यन्तरं केवलमप्यलं ते ॥५९ ॥

बाह्येतरोपाधि- समग्रतेयं
कार्येषु ते द्रव्यगतः स्वभावः ।
नैवाऽन्यथा मोक्ष-विधिश्च पुंसां
तेनाभिवन्द्यस्त्वमृषिर्बुधानाम् ॥६०॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री विमलनाथ जिन स्तुति

य एव नित्य-क्षणिकादयो नया
मिथोऽनपेक्षा: स्व-पर-प्रणाशिनः ।
त एव तत्त्वं विमलस्य ते मुनेः
परस्परेक्षा स्व- परोपकारिणः ॥ ६१ ॥

यथैकशः कारकमर्थ-सिद्धये
समीक्ष्य शेषं स्व-सहाय-कारकम् ।
तथैव सामान्य- विशेष – मातृका
नयास्तवेष्टा गुण- मुख्य-कल्पतः ॥६२॥

परस्परेक्षाऽन्वय-भेद-लिङ्गतः
प्रसिद्ध- सामान्य-विशेषयोस्तव ।
समग्रताऽस्ति स्व- पराऽवभासकं
यथा प्रमाणं भुवि बुद्धि-लक्षणम् ॥६३॥

विशेष्य- वाच्यस्य विशेषणं वचो
यतो विशेष्यं विनियम्यते च यत् ।
तयोश्च सामान्यमतिप्रसज्यते
विवक्षितात्स्यादितितेऽन्यवर्जनम् ॥६४॥

नयास्तव स्यात्पद-सत्य-लाञ्छिता
रसोपविद्धा इव लोह – धातवः ।
भवन्त्यभिप्रेत- गुणा यतस्ततो
भवन्तमार्याः प्रणता हितैषिणः ॥ ६५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

अनन्तनाथ जिन-स्तुति

अनन्त-दोषाऽऽशय-विग्रहो ग्रहो
विषङ्गवान्मोह – मयश्चिरं हृदि ।
यतो जितस्तत्त्वरुचौ प्रसीदता
त्वया ततोऽभूर्भगवाननन्तजित् ॥६६ ॥

कषाय-नाम्नां द्विषतां प्रमाथिना-
मशेषयन्नाम भवानशेषवित् ।
विशोषणं मन्मथ- दुर्मदाऽऽमयं
समाधि-भैषज्य-गुणैर्व्यलीनयत ॥६७॥

परिश्रमाऽम्बुर्भय-वीचि – मालिनी
त्वया स्वतृष्णा – सरिदाऽऽर्य ! शोषिता ।
असङ्ग-धर्मार्क- गभस्ति- तेजसा
परं ततो निर्वृति-धाम तावकम् ॥६८ ॥

सुहृत्त्वयि श्री – सुभगत्वमश्नुते
द्विषंस्त्वयि प्रत्ययवत् प्रलीयते ।
भवानुदासीनतमस्तयोरपि
प्रभो ! परं चित्रमिदं तवेहितम् ॥६९ ॥

त्वमीदृशस्तादृश इत्ययं मम
प्रलाप-लेशोऽल्प-मतेर्महामुने!
अशेष- माहात्म्यमनीरयन्नपि
शिवाय संस्पर्श इवाऽमृताम्बुधेः ॥७०॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री धर्मनाथ जिन – स्तुति

धर्म-तीर्थमनघं प्रवर्तयन्
धर्म इत्यनुमतः सतां भवान् ।
कर्म-कक्षमदहत्तपोऽग्निभिः
शर्म शाश्वतमवाप शङ्करः ॥७१ ॥

देव-मानव- निकाय-सत्तमै-
रेजिषे परिवृतो वृतो बुधैः ।
तारका-परिवृतोऽतिपुष्कलो
व्यमनीव शश- लाञ्छनोऽमलः ॥७२॥

प्रातिहार्य – विभवैः परिष्कृतो
देहतोऽपि विरतो भवानभूत् ।
मोक्षमार्गमशिषन्नरामरान्
नाऽपि शासन- फलैषणाऽऽतुरः ॥७३॥

काय – वाक्य- मनसां प्रवृत्तयो
नाऽभवस्तव मुनेश्चिकीर्षया ।
नाऽसमीक्ष्य भवतः प्रवृत्तयो
धीर! तावकमचिन्त्यमीहितम् ॥७४॥

मानुषीं प्रकृतिमभ्यतीतवान्
देवतास्वपि च देवता यतः ।
तेन नाथ ! परमाऽसि देवता
श्रेयसे जिनवृष! प्रसीद नः ॥७५॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री शान्तिनाथ जिन-स्तुति

विधाय रक्षां परतः प्रजानां
राजां चिरं योऽप्रतिम- प्रतापः ।
व्यधात्पुरस्तात्स्वत एव शान्ति-
मुनिर्दया- मूर्तिरिवाऽघशान्तिम् ॥७६ ॥

चक्रेण यः शत्रु-भयङ्करेण
जित्वा नृपः सर्व- नरेन्द्र- चक्रम् ।
समाधि-चक्रेण पुनर्जिगाय
महोदयो दुर्जय-मोह- चक्रम् ॥७७॥

राज- श्रिया राजसु राज – सिंहो
रराज यो राज- सुभोग-तन्त्रः ।
आर्हन्त्य-लक्ष्म्या पुनरात्म-तन्त्रो
देवा सुरोदार – सभे रराज ॥७८॥

यस्मिन्नभूद्राजनि राज- चक्रं
मुनौ दया- दीधिति-धर्म- चक्रम् ।
पूज्ये मुहुः प्राञ्जलि देव-चक्रं
ध्यानोन्मुखे ध्वंसि कृतान्त – चक्रम् ॥७९ ॥

स्वदोष – शान्त्या विहिताऽऽत्मशान्तिः
शान्तेर्विधाता शरणं गतानाम् ।
भूयाद्भव-क्लेश- भयोपशान्त्यै
शान्तिर्जिनो मे भगवान् शरण्यः ॥८०॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra
संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री कुन्थुनाथ जिन स्तुति

कुन्थु-प्रभृत्यखिल – सत्त्व- दयैकतानः
कुन्थुर्जिनो ज्वर – जरा – मरणोपशान्त्यै ।
त्वं धर्म- चक्रमिह वर्तयसि स्म भूत्यै
भूत्वा पुरा क्षितिपतीश्वर – चक्रपाणिः ॥ ८१ ॥

तृष्णाऽर्चिषः परिदहन्ति न शान्तिरासा-
मिष्टेन्द्रियार्थ – विभवैः परिवृद्धिरेव ।
स्थित्यैव काय- परिताप-हरं निमित्त-
मित्यात्मवान् विषय-सौख्य-पराङ्मुखोऽभूत् ॥८२ ॥

बाह्यं तपः परम- दुश्चरमाचरस्त्व-
माध्यात्मिकस्य तपस:परिबृंहणार्थम् ।
ध्यानं निरस्य कलुष-द्वयमुत्तरस्मिन्
ध्यान – द्वये ववृतिषेऽतिशयोपपन्ने ॥ ८३ ॥

हुत्वा स्व-कर्म- कटुक – प्रकृतीश्चतस्रो
रत्नत्रयाऽतिशय – तेजसि जात-वीर्यः ।
बभ्राजिषे सकल – वेद-विधेर्विनेता
व्यभ्रे यथा वियति दीप्त-रुचिर्विवस्वान् ॥८४ ॥

यस्मान्मुनीन्द्र ! तव लोक-पितामहाद्या
विद्या विभूति कणिकामपि नाप्नुवन्ति ।
तस्माद्भवन्तमजमप्रतिमेयमार्याः
स्तुत्यं स्तुवन्ति सुधियः स्व- हितैकतानाः ॥८५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री अरनाथ जिन -स्तुति

गुण- स्तोकं सदुल्लङ्घ्य तद्बहुत्व – कथा स्तुतिः ।
आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥८६ ॥

तथाऽपि ते मुनीन्द्रस्य यतो नामाऽपि कीर्तितम् ।
पुनाति पुण्य – कीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥८७॥

लक्ष्मी-विभव – सर्वस्वं मुमुक्षोश्चक्र- लाञ्छनम्।
साम्राज्यं सार्वभौमं ते जरत्तृणमिवाऽभवत् ॥८८ ॥

तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् ।
द्वयक्षः शक्रः सहस्राक्षो बभूव बहु – विस्मयः ॥८९ ॥

मोहरूपो रिपुः पापः कषाय- भट-साधनः ।
दृष्टि- संविदुपेक्षाऽस्त्रैस्त्वया धीर ! पराजितः ॥ ९० ॥

कन्दर्पस्योद्धर दर्प स्त्रैलोक्य- विजयार्जितः ।
हे पयामास तं धीरे त्वयि प्रतिहतोदयः ॥ ९१ ॥

आयत्यां च तदात्वे च दुःख- योनिर्दुरुत्तरा ।
तृष्णा नदी त्वयोत्तीर्णा विद्या- नावा विविक्तया ॥९२ ॥

अन्तकः क्रन्दको नृणां जन्म- ज्वर – सखः सदा ।
त्वामन्तकाऽन्तकं प्राप्य व्यावृत्तः काम-कारतः ॥९३॥

भूषा – वेषाऽऽयुध- त्यागि विद्या- दम – दया- परम् ।
रूपमेव तवाऽऽचष्टे धीर ! दोष-विनिग्रहम् ॥९४ ॥

समन्ततोऽङ्ग भासां ते परिवेषेण भूयसा ।
तमो बाह्यमपाकीर्णमध्यात्मं ध्यान तेजसा ॥९५ ॥

सर्वज्ञ – ज्योतिषोद्भूतस्तावको महिमोदयः ।
कं न कुर्यात्प्रणम्रं ते सत्त्वं नाथ! सचेतनम् ॥९६ ॥

तव वागमृतं श्रीमत्सर्व- भाषा – स्वभावकम् ।
प्रीणयत्यमृतं यद्वत्प्राणिनो व्यापि संसदि ॥ ९७ ॥

अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः ।
ततः सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥९८ ॥

ये पर – स्खलितोन्निद्राः स्व-दोषेभ- निमीलनाः ।
तपस्विनस्ते किं कुर्युरपात्रं त्वन्मत- श्रियः ॥ ९९ ॥

ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः ।
त्वद्विषः स्वहनो बालास्तत्त्वाऽवक्तव्यतां श्रिताः ॥ १०० ॥

सदेक-नित्य-वक्तव्यास्तद्विपक्षाश्च ये नयाः ।
सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीह ते ॥ १०१ ॥

सर्वथा नियम- त्यागी यथादृष्ट मपेक्षकः ।
स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥ १०२ ॥

अनेकान्तोप्यनेकान्तः प्रमाण-नय-साधनः ।
अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ॥ १०३ ॥

इति निरुपम – युक्त-शासनः
प्रिय-हित-योग-गुणाऽनुशासनः ।
अर-जिन ! दम-तीर्थ-नायक-
स्त्वमिव सतां प्रतिबोधनाय कः ? ॥ १०४॥

मति-गुण- विभवानुरूपत-
स्त्वयि – वरदाऽऽगम-दृष्टिरूपतः ।
गुण-कृषमपि किञ्चनोदितं
मम भवताद् दुरितासनोदितम् ॥१०५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री मल्लिनाथ जिन – स्तुति

यस्य महर्षेः सकल-पदार्थ-
प्रत्यवबोधः समजनि साक्षात् ।
साऽमर – मर्त्यं जगदपि सर्वं
प्राञ्जलि भूत्वा प्रणिपतति स्म ॥१०६ ॥

यस्य च मूर्तिः कनकमयीव
स्व- स्फुरदाभा – कृत- परिवेषा ।
वागपि तत्त्वं कथयितुकामा
स्यात्पद-पूर्वा रमयति साधून् ॥ १०७ ॥

यस्य पुरस्ताद्विगलित-माना
न प्रतितीर्थ्या भुवि विवदन्ते ।
भूरपि रम्या प्रतिपदमासी-
ञ्जात-विकोशाम्बुज- मृदु-हासा ॥ १०८ ॥

यस्य समन्ताज्जिन- शिशिरांशोः
शिष्यक-साधु-ग्रह-विभवोऽभूत् ।
तीर्थमपि स्वं जनन-समुद्र-
त्रासित-सत्त्वोत्तरण- पथोऽग्रम् ॥१०९ ॥

यस्य च शुक्लं परमतपोऽग्नि-
र्ध्यानमनन्तं दुरितमधाक्षीत् ।
तं जिन-सिंहं कृतकरणीय
मल्लिमशल्यं शरणमितोऽस्मि ॥ ११० ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री मुनिसुव्रत जिन – स्तुति

अधिगत-मुनि-सुव्रत-स्थिति-
मुनि – वृषभो मुनिसुव्रतोऽनघः ।
मुनि – परिषदि निर्बभौ भवा-
नुडु – परिषत्परिवीत- सोमवत् ॥ १११ ॥

परिणत-शिखि-कण्ठ-रागया
कृत-मद-निग्रह-विग्रहाभया ।
तव जिन ! तपसः प्रसूतया
ग्रह परिवेष- रुचेव शोभितम् ॥ ११२ ॥

शशि-रुचि – शुचि-शुक्ल-लोहितं
सुरभितरं विरजो निजं वपुः ।
तव शिवमतिविस्मयं यते !
यदपि च वाङ्मनसीयमीहितम् ॥ ११३ ॥

स्थिति-जनन-निरोध-लक्षणं
चरमचरं च जगत् प्रतिक्षणम् ।
इति जिन ! सकलज्ञ – लाञ्छनं
वचनमिदं वदतांवरस्य ते ॥ ११४ ॥

दुरित – मल- कलङ्कमष्टकं
निरुपम-योग- बलेन निर्दहन् ।
अभवदभव-सौख्यवान् भवान्
भवतु ममापि भवोपशान्तये ॥ ११५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री नमिनाथ जिन – स्तुति

स्तुति: स्तोतुः साधोः कुशल- परिणामाय स तदा
भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च ।
किमेवं स्वाधीन्याज्जगति सुलभे श्रायस – पथे
स्तुयान्न त्वां विद्वान्सततमभिपूज्यं नांमि – जिनम् ॥ ११६ ॥

त्वया धीमन् ! ब्रह्म- प्रणिधि- मनसा जन्म-निगलं
समूलं निर्भिन्नं त्वमसि विदुषां मोक्ष – पदवी ।
त्वयि ज्ञान – ज्योतिर्विभव-किरणैर्भाति भगव-
न्नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ ११७ ॥

विधेयं वार्य चाऽनुभयमुभयं मिश्रमपि तद्-
विशेषैः प्रत्येकं नियम- विषयैश्चापरिमितैः ।
सदाऽन्योन्यापेक्षैः सकल- भुवन – ज्येष्ठ- गुरुणा
त्वया गीत तत्त्वं बहु-नय- विवक्षेतर – वशात् ॥ ११८ ॥

अहिंसा भूतानां जगति विदितं ब्रह्म परमं
न सा तत्राऽऽरम्भोऽस्त्यणुरपि च यत्राऽऽ श्रमविधौ ।
ततस्तत्सिद्ध्यर्थं परम- करुणो ग्रन्थमुभयं
भवानेवाऽत्याक्षीन्न च विकृत-वेषोपधि- रतः ॥११९ ॥

वपुर्भूषा- वेष- व्यवधि – रहितं शान्त- करणं
यतस्ते संचष्टे स्मर-शर- विषाऽऽतङ्क – विजयम् ।
विना भीमैः शस्त्रैरदय – हृदयाऽमर्ष – विलयं
ततस्त्वं निर्मोह: शरणमसि नः शान्ति-निलयः ॥ १२० ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री नेमिनाथ जिन – स्तुति

भगवानृषिः परम-योग-
दहन-हुत-कल्मषेन्धनः ।
ज्ञान- विपुल – किरणैः सकलं
प्रतिबुद्ध-कमलायतेक्षणा: ॥ १२१ ॥

हरिवंश-केतुरनवद्य-
विनय-दम-तीर्थ-नायकः ।
शील- जलधिरभवो विभव-
स्त्वमरिष्टनेमि – जिनकुञ्जरोऽजरः ॥१२२॥

त्रिदशेन्द्र– मौलि-मणि-रत्न-
किरण- विसरोपचुम्बितम् ।
पाद-युगलममलं भवतो
विकसत्कुशेशय-दलाऽरुणोदरम् ॥१२३ ॥

नख-चन्द्र-रश्मि-कवचाऽति-
रुचिर-शिखराऽङ्गुलि-स्थलम् ।
स्वार्थ-नियत-मनसः सुधियः
प्रणमन्ति मन्त्र – मुखरा महर्षयः ॥ १२४ ॥

द्युतिमद्रथाङ्ग-रवि-बिम्ब-
किरण- जटिलांशुमण्डलः ।
नील- जलद – जल – राशि – वपुः
सह बन्धुभिर्गरुडकेतुरीश्वरः ॥१२५ ॥

हलभृच्च ते स्वजनभक्ति-
मुदित- हृदयौ जनेश्वरौ ।
धर्म-विनय-रसिकौ सुतरां
चरणाऽरविन्द-युगलं प्रणेमतुः ॥ १२६ ॥

ककुदं भुवः खचरयोषि-
दुषित – शिखरैरलङ्कृतः ।
मेघ-पटल-परिवीत-तट-
स्तव लक्षणानि लिखितानि वज्रिणा ॥ १२७ ॥

वहतीति तीर्थमृषिभिश्च
सततमभिगम्यतेऽद्य च ।
प्रीति – वितत-हृदयैः परितो
भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८ ॥

बहिरन्तरप्युभयथा च
करणमविघाति नाऽर्थकृत् ।
नाथ ! युगपदखिलं च सदा
त्वमिदं तलाऽऽमलकवद्विवेदिथ ॥१२९ ॥

अत एव ते बुध-नुतस्य चरित-गुणमद्भुतोदयम्।
न्याय-विहितमवधार्य जिने
त्वयि सुप्रसन्न – मनसः स्थिता वयम् ॥ १३० ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra
संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री पार्श्वनाथ जिन स्तुति

तमाल-नीलैः सधनुस्तडिद्गुणैः ।
प्रकीर्ण- भीमाऽशनि – वायु- वृष्टिभिः ।
बलाहकैर्वैरि-वशैरुपतो
महामना यो न चचाल योगतः ॥ १३१ ॥

बृहत्फणा – मण्डल- मण्डपेन
यं स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम् ।
जुगूह नागो धरणो धराधरं
विराग-संध्या-तडिदम्बुदो यथा ॥ १३२ ॥

स्व-योग-निस्त्रिंश-निशात- धारया
निशात्य यो दुर्जय-मोह-विद्विषम् ।
अवापदाऽऽर्हन्त्यमचित्यमद्भुतं
त्रिलोकपूजातिशयाऽऽस्पदं पदम् ॥ १३३ ॥

यमीश्वरं वीक्ष्य विधूत- कल्मषं
तपोधनास्तेऽपि तथा बुभूषवः ।
वनौकसः स्व- श्रम-बन्ध्य-बुद्धयः
शमोपदेशं शरणं प्रपेदिरे ॥ १३४ ॥

स सत्य-विद्या- तपसां प्रणायकः
समग्रधीरुग्रकुलाऽम्बरांशुमान् ।
मया सदा पार्श्वजिनः प्रणम्यते
विलीन – मिथ्यापथ-दृष्टि-विभ्रमः ॥ १३५ ॥

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

श्री महावीर जिन स्तुति

कीर्त्या भुवि भासि तया
वीर! त्वं गुण- समुत्थया भासितया ।
भासोडुस भाऽसितया
सोम इव व्योम्नि कुन्द-शोभासितया ॥ १३६ ॥

तव जिन ! शासन-विभवो
जयति कलावपि गुणानुशासन- विभवः ।
दोषकशासनविभवः
स्तुवन्ति प्रभा- कृशासनविभवः ॥१३७॥

अनवद्यः स्याद्वादस्तव
दृष्टेष्टाविरोधत: स्याद्वादः ।
इतरो न स्याद्वादो सद्वितय-
विरोधान्मुनीश्वराऽस्याद्वादः ॥ १३८ ॥

त्वमसि सुरासुर-महितो
ग्रन्थिकसत्त्वाऽऽशयप्रणामाऽमहितः ।
लोक-त्रय-परमहितो-
Sनावरणज्योतिरुज्ज्वलद्धाम- हितः ॥ १३९ ॥

सभ्यानामभिरुचितं
दधासि गुण-भूषणं श्रिया चारु- चितम् ।
मग्नं स्वस्यां रुचितं
जयसि च मृग-लाञ्छनं स्व- कान्त्या रुचितम् ॥ १४० ॥

त्वं जिन ! गत-मद-माय-
स्तव भावानां मुमुक्षु कामद! मायः ।
श्रेयान् श्रीमदमाय-
स्त्वया समादेशि सप्रयामदमायः १४१ ॥

गिरिभित्त्यवदानवतः
श्रीमत इव दन्तिनः स्त्रवद्दानवतः ॥
तव शम-वादानवतो
गतमूर्जितमपगत- प्रमादानवतः ॥ १४२ ॥

बहुगुण- सम्पदसकलं
परमतपि मधुर वचन – विन्यास- कलम् ।
नय-भक्तयवतंस-कलं
तव देव ! मतं समन्तभद्रं सकलम् ॥ १४३ ॥
आचार्य समन्तभद्र स्वामी जी द्वारा -रचित

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra
संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

संपूर्ण स्वयंभू स्तोत्र संस्कृत में-Sampoorna Swayambhu Stotra

अन्य जानकारी व सुझाव के लिए संपर्क करें-+ 91 9918486001MantraKavach.com

घरेलु सामान की जानकारी व सुझाव के लिए विजिट करें – trustwelly.com